|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.60. अध्यायः 060
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन वसुदेवादीन्प्रति कुरुपाण्डवयुद्धप्रकारकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वसुदेव उवाच।
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम्।
नराणां वदतां पुत्र कथोद्धातेषु नित्यशः॥ 14-60-1(94156)
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुजः।
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ॥ 14-60-2(94157)
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम्।
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम्॥ 14-60-3(94158)
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः।
नानावेषाकृतिमतां नानादेशनिवासिनाम्॥ 14-60-4(94159)
वैशम्पायन उवाच। 14-60-5x(7911)
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदाऽन्तिके।
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा॥ 14-60-5(94160)
वासुदेव उवाच। 14-60-6x(7912)
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम्।
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि॥ 14-60-6(94161)
प्राधान्यतस्तु गदतः समासेनैव मे शृणु।
कर्माणि पृथिवीशानां यथावदमरद्युते॥ 14-60-7(94162)
भीष्मः सेनापतिरभूदेकादशचमूपतिः।
कौरव्यः कौरवेन्द्राणां देवानामिव पावकिः॥ 14-60-8(94163)
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः।
बभूव रक्षितो धीमाञ्श्रीमता सव्यसाचिना॥ 14-60-9(94164)
तेषां तदभवद्युद्धं दशाहानि महात्मनाम्।
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम्॥ 14-60-10(94165)
अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम्।
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना॥ 14-60-11(94166)
अकरोत्स ततः कालं शरतल्पगतो मुनिः।
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे॥ 14-60-12(94167)
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषांवरः।
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव॥ 14-60-13(94168)
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः।
संवृतः समरश्लाघी गुप्तः कृपसुतादिभिः॥ 14-60-14(94169)
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित्।
गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा॥ 14-60-15(94170)
स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः।
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत्॥ 14-60-16(94171)
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे।
नानादिगागता वीराः प्रायशो निधनं गताः॥ 14-60-17(94172)
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम्।
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः॥ 14-60-18(94173)
ततः सेनापतिरभूत्कर्णो दौर्योधने बले।
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे॥ 14-60-19(94174)
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः।
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः॥ 14-60-20(94175)
ततः पार्थं समासाद्य पतङ्ग इव पावकम्।
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणः॥ 14-60-21(94176)
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः।
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन्॥ 14-60-22(94177)
हतिवाहनभूयिष्ठाः पाण्डिवास्तु युधिष्ठिरम्।
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्॥ 14-60-23(94178)
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः।
तस्मिंस्तदाऽर्धदिवसे कृत्वा कर्म सुदुष्करम्॥ 14-60-24(94179)
हते शल्ये तु शकुनिं सहदेवो महामनाः।
आहर्तारं कलेस्तस्य जगानामितविक्रमः॥ 14-60-25(94180)
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः।
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः॥ 14-60-26(94181)
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान्।
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम्॥ 14-60-27(94182)
इतशिष्टेन सैन्येन समन्तात्पर्यवार्य तम्।
अथोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः॥ 14-60-28(94183)
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः।
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः॥ 14-60-29(94184)
ततः स निहतो राजा धार्तराष्ट्रो महारणे।
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम्॥ 14-60-30(94185)
ततस्तत्पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि।
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता॥ 14-60-31(94186)
हतपुत्रा हतबला हतमित्रा मया सह।
युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः॥ 14-60-32(94187)
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत।
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात्॥ 14-60-33(94188)
निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने।
विदुरः संजयश्चैव धर्मराजमुपस्थितौ॥ 14-60-34(94189)
एवं तदभवद्युद्दमहान्यष्टादश प्रभो।
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन्॥ 14-60-35(94190)
वैशम्पायन उवाच। 14-60-36x(7913)
शृण्वतां तु महाराज कथां तां रोमहर्षणीम्।
दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा॥ ॥ 14-60-36(94191)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षष्टितमोऽध्यायः॥ 60 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-60-11 ततः शिखण्डी गाङ्गेयं युध्यमानं महाहवे। इति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|